|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.263. अध्यायः 263
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण ब्राह्मणमहिमानं पृष्टेन भीष्मेण तंप्रति स्वस्य कुष्ठितेन्द्रियादिशक्तिकतया मुमूर्षानिवेदनपूर्वकं कृष्णात्तदवगमनचोदना॥ 1 ॥ तथा कृष्णस्य श्रीनारायणात्मकत्वनिवेदनेन तन्महिमानुवर्णनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्।
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप॥ 13-263-1(91922)
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत।
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे॥ 13-263-2(91923)
भीष्म उवाच। 13-263-3x(7706)
एष ते केशवः सर्वमाख्यास्यति महामतिः।
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत॥ 13-263-3(91924)
बलं श्रोत्रे वाङ्मनश्चक्षुषी च
ज्ञानं तथा नविशुद्धं ममाद्य।
देहन्यासो नातिचिरान्मतो मे
न चातितूर्णं सविताऽद्य याति॥ 13-263-4(91925)
उक्ता धर्मा ये पुराणे महान्तो
राजन्विप्राणां क्षत्रियाणां विशां च।
येये शूद्राणां धर्ममुपासते ते
तानेव कृष्णदुपशिक्षस्व पार्थः॥ 13-263-5(91926)
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं
योऽयं हि यच्चास्य बलं पुराणम्।
अमेयात्मा केशवः कौरवेन्द्र
सोयं धर्मं वक्ष्यति सर्वमेतत्॥ 13-263-6(91927)
कृष्णः पृथ्वीमसृजत्स्वं दिवं च
कृष्णस्यि देहान्मेदिनी सम्बभूव।
वराहोऽयं भीमबलः पुराणः
स पर्वतान्व्यसृजद्वै दिशश्च॥ 13-263-7(91928)
अस्माद्वायुश्चान्तरिक्षं दिवं च
दिशश्चतस्रो विदिशश्चतस्रः।
सृष्टिस्तथैवेयमनुप्रसूता
स निर्ममे विश्वमिदं पुराणः॥ 13-263-8(91929)
अस्य नाभ्यां पुष्करं सम्प्रसूतं
यत्रोत्पन्नः स्वयमेवामितौजाः।
येनाच्छिन्नं तत्तमः पार्थ घोरं
यत्र तिष्ठन्त्यर्णवास्तच्छयानाः॥ 13-263-9(91930)
कृते युगे धर्म आसीत्समग्र-
स्त्रेताकाले यज्ञमनुप्रपन्नः।
बलं त्वासीद्द्वापरे पार्थ कृष्णः
कलौ त्वधर्मः क्षितिमेवाजगाम॥ 13-263-10(91931)
स एव पूर्वं निजघान दैत्या-
न्स एव देवश्च बभूव सम्राट्।
स भूतानां भावनो भूतभव्यः
स विश्वस्यास्य जगतश्चाभिगोप्ताः॥ 13-263-11(91932)
यदा धर्मो ग्लाति वंशे सुराणां
तदा कृष्णो जायते मानुषेषु।
धर्मे स्थित्वा स तु वै भावितात्मा
परांश्च लोकानपराश्च पाति॥ 13-263-12(91933)
त्याज्यांस्त्यक्त्वा चासुराणां वधेन
कार्याकार्ये कारणं चैव पाति।
कृतं करिष्यत्क्रियते च देवो
राहुं सोमं विद्धि च शक्रमेनम्॥ 13-263-13(91934)
स विश्वकर्मा स हि विश्वरूपः
स विश्वबुग्विश्वसृग्विश्वजिच्च।
स शूलभृच्छोणितभृत्कराल-
स्तं कर्मभिर्विदितं वै स्तुवन्ति॥ 13-263-14(91935)
तं गन्धर्वाणामप्सरसां च नित्य-
मुपतिष्ठन्ते विबुधानां शतानि।
तं राक्षसाश्च परिसंवदन्ति
राजन्यानां स विजिगीषुरेकः॥ 13-263-15(91936)
तमध्वरे शंसितारः स्तुवन्ति
रथन्तरे सामगाश्च स्तुवन्ति।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति
तस्मै हविरध्वर्यवः कल्पयन्ति॥ 13-263-16(91937)
स पौराणीं ब्रह्मगुहां प्रविष्टो
महीसत्रं भारताग्रे ददर्श।
स चैव गामुद्दधाराग्र्यकर्मा
विक्षोभ्य दैत्यानुरगान्दानवांश्च॥ 13-263-17(91938)
तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति
स चापीशो भारतैकः पशूनाम्।
तस्य भक्षान्विविधान्वेदयन्ति
तमेवाजौ वाहनं वेदयन्ति॥ 13-263-18(91939)
तस्यान्तरिक्षं पृथिवी दिवं च
सर्वं वशे तिष्ठति शाश्वतस्य।
स कुम्भे रेतः ससृजे सुराणां
यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्॥ 13-263-19(91940)
स मातरिश्वा विभुरश्ववाजी
स रश्मिवान्सविता चादिदेवः।
तेनासुरा विजिताः सर्व एव
तद्विक्रान्तैर्विजितानीह त्रीणि॥ 13-263-20(91941)
स देवानां मानुषाणां पितॄणां
तमेवाहुर्यज्ञविदां वितानम्।
स एव कालं विभजन्नुदेति
तस्योत्तरं दक्षिणं चायने द्वे॥ 13-263-21(91942)
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति
गभस्तयो मेदिनीं भासयन्तः।
तं ब्राह्मणा वेदविदो जुषन्ति
तस्यादित्यो गामुपयुज्य भाति॥ 13-263-22(91943)
स मासिमास्यध्वरकृद्विधत्ते
तमध्वरे वेदविदः पठन्ति।
स एवोक्तश्चक्रमिदं त्रिनाभि
सप्ताश्वयुक्तं वहते वै त्रिधामा॥ 13-263-23(91944)
`हिरण्मयः सप्तगूढः ससंवि-
च्चतुर्बाहुः पन्नगः पद्मनाभः।'
महातेजाः सर्वगः सर्वसिंहः
कृष्णो लोकान्धारयते यथैकः।
हंसं तमोघ्नं च तमेव वीर
कृष्णं सदा पार्थ कर्तारमेहि॥ 13-263-24(91945)
स एकदा कक्षगतो महात्मा
तुष्टो विभुः खाण्डवे धूमकेतुः।
स राक्षसानुरगांश्चावजित्य
सर्वत्रगः सर्वमग्नौ जुहोति॥ 13-263-25(91946)
स एव पार्थाय श्वेतमश्वं प्रायच्छ-
त्स एवाश्वानथ सर्वांश्चकार।
सबन्धुरस्तस्य रथस्त्रिचक्र-
स्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः॥ 13-263-26(91947)
स विहायो व्यदधात्पञ्चनाभिः
स निर्ममे गां दिवमन्तरिक्षम्।
सोऽरण्यानि व्यसृजत्पर्वतांश्च
हृषीकेशोऽमितदीप्ताग्नितेजाः॥ 13-263-27(91948)
अलङ्घयद्वै सरितो जिघांस-
ञ्शक्रं वज्रं प्रहरन्तं निरास।
स महेन्द्रः स्तूयते वै महाध्वरे
विप्रैरेको ऋक्सहस्रैः पुराणैः॥ 13-263-28(91949)
दुर्वासा वै तेन नान्येन शक्यो
गृहे राजन्वासयितुं महौजाः।
तमेवाहुर्ऋषिमेकं पुराणं
स विश्वकृद्विदधात्यात्मभावान्॥ 13-263-29(91950)
वेदांश्च यो वेदयतेऽधिदेवो
विधींश्च यश्चाश्रयते पुराणान्।
कामे वेदे लौकिके यत्फलं च
विष्वक्सेनः सर्वमेतत्प्रतीहि॥ 13-263-30(91951)
ज्योतींषि शुक्लानि हि सर्वलोके
त्रयो लोका लोकपालास्त्रयश्च।
त्रयोऽग्रयो व्याहृतयश्च तिस्रः
सर्वे देवा देवकीपुत्र एव॥ 13-263-31(91952)
स क्त्सरः स ऋतुः सोऽर्धमासः
सोऽहोरात्रः स कला वै स काष्ठाः।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च
विष्वक्सेनः सर्वमेतत्प्रतीहि॥ 13-263-32(91953)
चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम्।
चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम्। 13-263-33(91954)
नक्षत्रयोगा ऋतवश्च पार्थ
विष्वक्सेनात्सर्वमेतत्प्रसूतम्॥
रुद्रादित्या वसवोऽथाश्विनौ च
साध्याश्च विश्वे मरुतां गणाश्च।
प्रजापतिर्देवमाताऽदितिश्च
सर्व कृष्णादृषयश्चैव सप्त॥ 13-263-34(91955)
वायुर्भूत्वा विक्षिपते च विश्व-
मग्निर्भूत्वा दहते विश्वरूपः।
आपो भूत्वा मज्जयते च सर्वं
ब्रह्म भूत्वा सृजते विश्वसङ्घान्॥ 13-263-35(91956)
वेद्यं च यद्वेदयते च वेद्यं
विधिश्च यश्च श्रयते विधेयम्।
धर्मे च वेदे च बले च सर्वं
चराचरं केशवं त्वं प्रतीहि॥ 13-263-36(91957)
ज्योतिर्भूतः परमोसौ पुरस्ता-
त्प्रकाशते यत्प्रभया विश्वरूपः।
अपः सृष्ट्वा सर्वभूतात्मयोनिः
पुराऽकरोत्सर्वमेवाथ विश्वम्॥ 13-263-37(91958)
ऋतूनुत्पातान्विविधान्यद्भुतानि
मेघान्विद्युत्सर्वमैरावतं च।
सर्वं कृष्णात्स्थावरं जङ्गं च
विश्वात्मानं विष्णुमेनं प्रतीहि॥ 13-263-38(91959)
विश्वावासं निर्गुणं वासुदेवं
सङ्कर्षणं जीवभूतं वदन्ति।
ततः प्रद्युम्नमनिरुद्धं चतुर्थ-
माज्ञापयत्यात्मयोनिर्महात्मा॥ 13-263-39(91960)
स पञ्चधा पञ्चगुणोपपन्नं
सञ्चोदयन्विश्वमिदं सिसृक्षुः।
ततश्चकारावनिमारुतौ च
खं ज्योतिरम्भश्चि तथैव पार्थ॥ 13-263-40(91961)
स स्थावरं जङ्गमं चैवमेत-
च्चतुर्विधं लोकमिमं च कृत्वा।
ततो भूमिं व्यदधात्पञ्चबीजां
द्यावापृथिव्यग्निरथाम्बुवायू॥ 13-263-41(91962)
तेन विश्वं कृतमेतद्धि राज-
न्स जीवयत्यात्मनैवात्मयोनिः।
ततो देवानसुरान्मानवांश्च
लोकानृषींश्चापि पितॄन्प्रजाश्च।
समासेनि विविधान्पाति लोका-
न्सर्वान्सदा भूतपतिः सिसृक्षुः॥ 13-263-42(91963)
शुभाशुभं स्थावरं जङ्गमं च
विष्वक्सेनात्सर्वमेतत्प्रतीहि।
यद्वर्तते यच्च भविष्यतीह
सर्वं ह्येतत्केशवं त्वं प्रतीहि॥ 13-263-43(91964)
मृत्युश्चैव प्राणिनामन्तकाले
साक्षात्कृष्णः केशवो देहभाजाम्।
भूतं च यच्चेह न विद्म किञ्चि-
द्विष्वक्सेनात्सर्वमेतत्प्रतीहि॥ 13-263-44(91965)
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम्॥ 13-263-45(91966)
एतादृशः केशवोऽतश्च भूयो
नारायणः परमश्चाव्ययश्च।
मध्याद्यन्तस्य जगतस्तस्तुषश्च
बुभूषतां प्रभवश्चाव्ययश्च॥ ॥ 13-263-46(91967)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः॥ 263 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-263-2 व्युष्टिं फलम्॥ 7-263-3 दृष्टव्युष्टिरिति झ.पाठः॥ 7-263-4 न चेति दुःखितस्य दिनं महद्भवतीत्यर्थः॥ 7-263-10 कलौ त्वधर्म एव बलवानिति भावः॥ 7-263-12 ग्लाति ग्लायति॥ 7-263-13 एनं राहुं सोमं शक्रं च विद्धि॥ 7-263-14 शोणितभृच्छरीरि॥ 7-263-17 महीसत्रं पृथिव्याश्छादनं मज्जनमिति यावत्॥ 7-263-18 घोषार्थे गोवर्द्धनोद्धरणकाले। पशूनां गवां जीवानां च। वाहनं जयप्रापकम्॥ 7-263-19 सुराणां मित्रावरुणयो रेतः कुम्भे ससृजे॥ 7-263-20 विक्रान्तैः पादविक्षेपैः। त्रीणि भुवनानि॥ 7-263-21 देवानां आत्मेति शेषः। तमेवाहुर्यज्ञविदः पुराणमिति क.थ.पाठः॥ 7-263-22 जुषन्ति सेवन्ते॥ 7-263-23 विधत्तेऽध्वरमित्यर्थात्। त्रिनाभि शीतोष्णवृष्टिकालगर्भम्। चक्रं संवत्सरम्। त्रिधामेति वर्षवातोष्णप्रकारम्॥ 7-263-24 हंसं सूर्यम्। प्राश्नन्ननश्नंश्च स एव धीरः कृष्णं सदा पार्थेति क.थ.पाठः॥ 7-263-26 त्रिबन्धुरस्तास्येति क.ध.पाठः॥ 7-263-27 पञ्चनाभिः पञ्चभूतानां नाभिराश्रय इत्यर्थः॥ 7-263-28 निरास पराभूतवान्॥ 7-263-30 विधिनग्निहोत्रादीन्॥ 7-263-36 वेद्यं वेदप्रतिद्यं। वेद्यं ज्ञेयम्॥ 7-263-38 नक्षत्रमासान्विविधं कार्यजातं विद्युत्संघैरापतन्तश्च मेघाः। सर्वं कृष्णादिति क.थ.पाठः॥ 7-263-40 पञ्चधा पञ्चप्रकारं देवासुरमनुष्यश्वापदतिर्यग्रूपेण विश्वं सिसृक्षुराज्ञापयतीति पूर्वेणान्वयः। पञ्चजनोपपन्नमिति झ.पाठः॥ 7-263-41 चतुर्विधं जरायुजादि। पञ्चबीजां चतुर्विधभूतग्रामः कर्म च तेषां बीजभूताम्॥ 7-263-45 अतः केशवात् यत्परं कल्प्यते तद्विपरीतम्। असन्मार्ग इत्यर्थः॥ 7-263-46 तादृशः केशवो देवो भूयो नारायणः परः। आदिरन्तश्च मध्यं च देशतः कालते हरिः। जगतां तस्थुषां चैव भूतानां प्रभवाप्यय इति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|